हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...
Sri Kiratha (Ayyappa) Ashtakam – श्री किराताष्टकम्
अस्य श्रीकिरातशस्तुर्महामन्त्रस्य रेमन्त ऋषिः देवी गायत्री छन्दः श्री किरात शास्ता देवता, ह्रां बीजं, ह्रीं शक्तिः, ह्रूं कीलकं, श्री किरात शस्तु प्रसाद सिद्ध्यर्थे जपे विनियोगः ।
करन्यासः –
ओं ह्रां अङ्गुष्ठाभ्यां नमः ।
ओं ह्रीं तर्जनीभ्यां नमः ।
ओं ह्रूं मध्यमाभ्यां नमः ।
ओं ह्रैं अनामिकाभ्यां नमः ।
ओं ह्रौं कनिष्ठिकाभ्यां नमः ।
ओं ह्रः करतल करपृष्ठाभ्यां नमः ।
अङ्गन्यासः –
ओं ह्रां हृदयाय नमः ।
ओं ह्रीं शिरसे स्वाहा ।
ओं ह्रूं शिखायै वषट् ।
ओं ह्रैं कवचाय हुम् ।
ओं ह्रौं नेत्रत्रयाय वौषट् ।
ओं ह्रः अस्त्राय फट् ।
भूर्भुवस्सुवरोमिति दिग्बन्धः ।
ध्यानम् ।
कोदण्डं सशरं भुजेन भुजगेन्द्रभोगा भासावहन्
वामेनच्छुरिकां विभक्षलने पक्षेण दक्षेण च ।
कान्त्या निर्जित नीरदः पुरभिदः क्रीडन्किराताकृते
पुत्रोस्माकमनल्प निर्मलया च निर्मातु शर्मानिशम् ॥
स्तोत्रम् ।
प्रत्यर्थिव्रातवक्षःस्थलरुधिरसुरापानमत्ता पृषत्कं
चापे सन्धाय तिष्ठन् हृदयसरसिजे मामके तापहं तम् ।
पिञ्छोत्तंसः शरण्यः पशुपतितनयो नीरदाभः प्रसन्नो
देवः पायादपायाच्छबरवपुरसौ सावधानः सदा नः ॥ १ ॥
आखेटाय वनेचरस्य गिरिजासक्तस्य शम्भोः सुतः
त्रातुं यो भुवनं पुरा समजनि ख्यातः किराताकृतिः ।
कोदण्डक्षुरिकाधरो घनरवः पिञ्छावतंसोज्ज्वलः
स त्वं मामव सर्वदा रिपुगणत्रस्तं दयावारिधे ॥ २ ॥
यो मां पीडयति प्रसह्य सततं देहीत्यनन्याश्रयं
भित्वा तस्य रिपोरुरः क्षुरिकया शाताग्रया दुर्मतेः ।
देव त्वत्करपङ्कजोल्लसितया श्रीमत्किराताकृतेः
तत्प्राणान्वितरान्तकाय भगवन् कालारिपुत्राञ्जसा ॥ ३ ॥
विद्धो मर्मसु दुर्वचोभिरसतां सन्तप्तशल्योपमैः
दृप्तानां द्विषतामशान्तमनसां खिन्नोऽस्मि यावद्भृशम् ।
तावत्त्वं क्षुरिकाशरासनधरश्चित्ते ममाविर्भवन्
स्वामिन् देव किरातरूप शमय प्रत्यर्थिगर्वं क्षणात् ॥ ४ ॥
हर्तुं वित्तमधर्मतो मम रताश्चोराश्च ये दुर्जना-
-स्तेषां मर्मसु ताडयाशु विशिखैस्त्वत्कार्मुकान्निःसृतैः ॥
शास्तारं द्विषतां किरातवपुषं सर्वार्थदं त्वामृते
पश्याम्यत्र पुरारिपुत्र शरणं नान्यं प्रपन्नोऽस्म्यहम् ॥ ५ ॥
यक्षः प्रेतपिशाचभूतनिवहाः दुःखप्रदा भीषणाः
बाधन्ते नरशोणितोत्सुकधियो ये मां रिपुप्रेरिताः ।
चापज्यानिनदैस्त्वमीश सकलान् संहृत्य दुष्टग्रहान्
गौरीशात्मज दैवतेश्वर किराताकार संरक्ष माम् ॥ ६ ॥
दोग्धुं ये निरतास्त्वमद्य पदपद्मैकान्तभक्ताय मे
मायाच्छन्नकलेबराश्रुविषदानाद्यैः सदा कर्मभिः ।
वश्यस्तम्भनमारणादिकुशलप्रारम्भदक्षानरीन्
दुष्टान् संहर देवदेव शबराकार त्रिलोकेश्वर ॥ ७ ॥
तन्वा वा मनसा गिरापि सततं दोषं चिकीर्षत्यलं
त्वत्पादप्रणतस्य निरपराधस्यापि ये मानवाः ।
सर्वान् संहर तान् गिरीशसुत मे तापत्रयौघानपि
त्वामेकं शबराकृते भयहरं नाथं प्रपन्नोऽस्म्यहम् ॥ ८ ॥
क्लिष्टो राजभटैस्तदापि परिभूतोऽहं कुलैर्वैरिभि-
-श्चान्यैर्घोरतरैर्विपज्जलनिधौ मग्नोऽस्मि दुःखातुरम् ।
हा हा किङ्करवै विभो शबरवेषं त्वामभीष्टार्थदं
वन्देऽहं परदैवतं कुरु कृपानाथार्तबन्धो मयि ॥ ९ ॥
स्तोत्रं यः प्रजपेत् प्रशान्तकरणैर्नित्यं किराताष्टकं
स क्षिप्रं वशगान् करोति नृपतीनाबद्धवैरानपि ।
संहृत्यात्मविरोधिनः खिलजनान् दुष्टग्रहानप्यसौ
यात्यन्ते यमदूतभीतिरहितो दिव्यां गतिं शाश्वतीम् ॥ १० ॥
इति श्री किराताष्टकम् ।
www.sanatanadharm.com
- play store app (
sanatana dharm
)
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.